॥ श्रीसूर्याष्टकम् ॥
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥ 1 ॥
सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2 ॥
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 3 ॥
त्रैगुण्यं च महाशूरं ब्रम्हविष्णु महेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 4 ॥
बृह्मितं तेजःपुञ्जञ्च वायुराकाशमेव च ।
प्रभुत्वं सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ 5 ॥
बन्धूक पुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्ररथं देवं तं सूर्यं प्रणमाम्यहम् ॥ 6 ॥
तं सूर्यं लोककर्तारं महा तेजः प्रदीपनम् ।
महापाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 7 ॥
तं सूर्यं जगतां नाथं ज्ञानप्रकाशमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 8 ॥
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥ 9 ॥
आमिषम मधुपानं च यः करोति रवेर्दिने ।
सप्तजन् भवेद्रोगी जन्म जन्म दरिद्रता ॥ 10 ॥
स्त्रीतैलमधुमांसानि योत्यजगीर वेर्दिने ।
न व्याधि शोक दारिद्र्यं सूर्य लोकं च गच्छति ॥ 11 ॥
0 Comments